• July to September 2025 Article ID: NSS9261 Impact Factor:8.05 Cite Score:1080 Download: 44 DOI: https://doi.org/ View PDf

    महाकविहर्षवर्धनस्य रूपकेषु ललितकला

      वासुदेव एक्का
        शोधच्छात्रः, शासकीय दू,श्री वै. संस्कृत महाविद्यालयः, रायपुरम् (छ.ग.)
      डॉ. बहुरन सिंह पटेल
        सहायक प्राध्यापकः (व्याकरणम्) शासकीय दू.श्री वै.संस्कृत महाविद्यालयः, रायपुरम् (छ.ग.)

शोधसारः – हर्षवर्धनस्य रूपकेषु संस्कृतसाहित्यस्य ललितकलानां प्रमुखं स्थानमस्ति । हर्षवर्धनः सप्तमशताब्द्याः प्रख्यातः सम्राटः विद्वानः चासीत् । तस्य आश्रये बाणभट्टः मयूरः मतङ्गः च इत्यादयः कवयः आसन् । हर्षवर्धनस्य रचनायां नागानन्दनाटकं एकं प्रसिद्धं संस्कृतनाटकमस्ति । यः बौद्धधर्मस्य प्रभावं दर्शयति । ललितकलाः यथा सङ्गीतं, नृत्यं, चित्रं, वाद्ययन्त्रं च नागानन्दनाटके प्रदर्शनस्य अङ्गानि वर्तन्ते । गीतानां रागात्मकं चित्रणं दर्शकानां हृदये आह्लादयति । ललितकला जीवनस्याधारोऽस्ति । ललितकलायाः जीवनस्य च महत्त्वपूर्णः सम्बन्धोऽस्ति । कला जीवनस्य लालित्यं जनयति । अतः नीतिशतकम् इति स्वग्रन्थे भर्तृहरिः कलाविहीनः मनुष्यं पशुतुल्यं कथयति –

‘साहित्यसङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः ।’( नीतिशतकम्-13 ) 

कूटशब्दः - सङ्गीतं, नृत्यं, चित्रं, वाद्ययन्त्रं च इत्यादयः ।