-
January to March 2026 Article ID: NSS9627 Impact Factor:8.05 Cite Score:85 Download: 9 DOI: https://doi.org/10.63574/nss.9627 View PDf
जानकीहरणमहाकाव्ये रसविमर्शः
डॉ. नीलकंठ करुआन
असिस्टेन्ट प्रोफेसर, अविनाश ग्रुप ऑफ इंस्टीट्यूशंस, हैदराबाद (तेलंगाना)
शोध सारांश- अद्यतनशास्त्रचिन्तायां काव्यस्य हृदयभूतः रसः
प्रमुखविमर्शविषयः। जानकीहरणमहाकाव्ये महार्षिवाल्मीकिना प्रतिपादितं
रामायणकथासूत्रं नव्या शैलीया पुनर्निर्मितम् । अस्य महाकाव्यस्य प्रमुखलक्षणं यत्
विविधप्रसङ्गेषु नानारसानां सुन्दरं समन्वयमस्ति । विशेषतः शृङ्गार, वीर, करुण,
विभत्स, रौद्र, इत्यादयः रसाः पात्रनाट्यगतैः भावैः, आलम्बन-उद्दीपनाद्यङ्गैः च
यथासम्भवम् आविर्भावं प्राप्नुवन्ति । कविना वर्णितं हरणप्रसङ्गं करुणरसस्य परिपाकं
दर्शयति, तथा सीतारामयोः विरहवेदनां शृङ्गारभङ्ग्याः माध्यमेन सजीवाकरोति ।
युध्दवर्णनेषु वीररसस्य उत्कर्षो द्रष्टुं शक्यते । एतेषां सर्वेषां रसस्वरूपाणां
सूक्ष्मविश्लेषणं कृत्वा एषा शोधकृतिः जानकीहरणमहाकाव्यस्य कलात्मकं, भावात्मकं च
मूल्यं प्रकटयति ।
मुख्यशब्दाः रसविमर्शः,
जानकीहरणमहाकाव्यम्, शृङ्गाररसः, वीररसः, करुणरसः, भाव-नाट्यतत्त्वम्,
अलङ्कारशास्त्रदृष्टिः, काव्यान्वयविश्लेषणम् ।
